७.८९.३

ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ।
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश सः ॥

पदच्छेदः

ततोततस् (अव्ययः)
विसृज्यविसृज्य (√वि-सृज् + ल्यप्)
तान्तद् (२.३)
सर्वान्सर्व (२.३)
रामोराम (१.१)
राजीवलोचनःराजीव–लोचन (१.१)
हृदिहृद् (७.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
तदातदा (अव्ययः)
सीताम्सीता (२.१)
अयोध्यांअयोध्या (२.१)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
सःतद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोवि सृज्य ता न्स र्वा
न्रा मो रा जी लो नः
हृदि कृ त्वा दा सी ता
यो ध्यांप्रवि वे सः