७.९.१२

स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् ।
अब्रवीत्परमोदारो दीप्यमान इवौजसा ॥

पदच्छेदः

तद् (१.१)
तुतु (अव्ययः)
तांतद् (२.१)
वीक्ष्यवीक्ष्य (√वि-ईक्ष् + ल्यप्)
सुश्रोणींसु (अव्ययः)–श्रोणी (२.१)
पूर्णचन्द्रनिभाननाम्पूर्ण–चन्द्र–निभ–आनन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
परमोदारोपरम–उदार (१.१)
दीप्यमानदीप्यमान (√दीप् + शानच्, १.१)
इवौजसाइव (अव्ययः)–ओजस् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तु तां वीक्ष्य सु श्रो णीं
पूर्णन्द्रनि भा नाम्
ब्र वीत्प मो दा रो
दीप्य मा वौ सा