७.९.२०

अथाब्रवीन्मुनिस्तत्र पश्चिमो यस्तवात्मजः ।
मम वंशानुरूपश्च धर्मात्मा च भविष्यति ॥

पदच्छेदः

अथाब्रवीन्मुनिस्तत्रअथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)–मुनि (१.१)–तत्र (अव्ययः)
पश्चिमोपश्चिम (१.१)
यस्तवात्मजःयद् (१.१)–त्वद् (६.१)–आत्मज (१.१)
मममद् (६.१)
वंशानुरूपश्चवंश–अनुरूप (१.१)–च (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
(अव्ययः)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थाब्र वीन्मु नि स्तत्र
श्चि मोस्त वात्म जः
वं शानु रूश्च
र्मा त्मा विष्यति