७.९०.१०

अयं गन्धर्वविषयः फलमूलोपशोभितः ।
सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥

पदच्छेदः

अयंइदम् (१.१)
गन्धर्वविषयःगन्धर्व–विषय (१.१)
फलमूलोपशोभितःफल–मूल–उपशोभित (√उप-शोभय् + क्त, १.१)
सिन्धोर्सिन्धु (६.१)
उभयतःउभयतस् (अव्ययः)
पार्श्वेपार्श्व (७.१)
देशःदेश (१.१)
परमशोभनःपरम–शोभन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यं न्धर्ववि यः
मू लो शोभि तः
सि न्धोरु तः पा र्श्वे
दे शः शो नः