७.९०.१३

अन्यस्य न गतिस्तत्र देशश्चायं सुशोभनः ।
रोचतां ते महाबाहो नाहं त्वामनृतं वदे ॥

पदच्छेदः

अन्यस्यअन्य (६.१)
(अव्ययः)
गतिस्तत्रगति (१.१)–तत्र (अव्ययः)
देशश्चायंदेश (१.१)–च (अव्ययः)–इदम् (१.१)
सुशोभनःसु (अव्ययः)–शोभन (१.१)
रोचतांरोचताम् (√रुच् लोट् प्र.पु. एक.)
तेत्वद् (४.१)
महाबाहोमहत्–बाहु (८.१)
नाहं (अव्ययः)–मद् (१.१)
त्वाम्त्वद् (२.१)
अनृतंअनृत (२.१)
वदेवदे (√वद् लट् उ.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्यस्य ति स्तत्र
दे श्चा यंसु शो नः
रो तां ते हा बा हो
ना हं त्वानृ तं दे