७.९०.१४

तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ।
उवाच बाढमित्येवं भरतं चान्ववैक्षत ॥

M N Dutt

Hearing the words of the maternal uncle communicated by the great saint, Rāma, with delight, said.

पदच्छेदः

तच्छ्रुत्वातद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
राघवःराघव (१.१)
प्रीतोप्रीत (√प्री + क्त, १.१)
महर्षेर्मातुलस्यमहत्–ऋषि (६.१)–मातुल (६.१)
(अव्ययः)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
बाढम्बाढ (२.१)
इत्येवंइति (अव्ययः)–एवम् (अव्ययः)
भरतंभरत (२.१)
चान्ववैक्षत (अव्ययः)–अन्ववैक्षत (√अन्वव-ईक्ष् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु त्वा रा वः प्री तो
र्षे र्मातुस्य
वा बा मि त्ये वं
तं चान्व वैक्ष