७.९०.१५

सोऽब्रवीद्राघवः प्रीतः प्राञ्जलिप्रग्रहो द्विजम् ।
इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः ॥

पदच्छेदः

सोतद् (१.१)
ऽब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
राघवःराघव (१.१)
प्रीतःप्रीत (√प्री + क्त, १.१)
प्राञ्जलिप्रग्रहोप्राञ्जलि–प्रग्रह (१.१)
द्विजम्द्विज (२.१)
इमौइदम् (१.२)
कुमारौकुमार (१.२)
तंतद् (२.१)
देशंदेश (२.१)
ब्रह्मर्षेब्रह्मर्षि (८.१)
विजयिष्यतःविजयिष्यतः (√वि-जि लृट् प्र.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सोऽब्र वी द्रा वः प्री तः
प्राञ्ज लि प्रग्र होद्वि जम्
मौकु मा रौ तं दे शं
ब्र ह्म र्षेवि यिष्य तः