७.९०.६

पृष्ट्वा च प्रीतिदं सर्वं कुशलं मातुलस्य च ।
उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥

पदच्छेदः

पृष्ट्वापृष्ट्वा (√प्रच्छ् + क्त्वा)
(अव्ययः)
प्रीतिदंप्रीति–द (२.१)
सर्वंसर्व (२.१)
कुशलंकुशल (२.१)
मातुलस्यमातुल (६.१)
(अव्ययः)
उपविष्टंउपविष्ट (√उप-विश् + क्त, २.१)
महाभागंमहाभाग (२.१)
रामःराम (१.१)
प्रष्टुंप्रष्टुम् (√प्रच्छ् + तुमुन्)
प्रचक्रमेप्रचक्रमे (√प्र-क्रम् लिट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पृ ष्ट्वा प्रीति दं र्वं
कु लं मातुस्य
वि ष्टं हा भा गं
रा मः प्र ष्टुंप्रक्र मे