७.९०.७

किमाह मातुलो वाक्यं यदर्थं भगवानिह ।
प्राप्तो वाक्यविदां श्रेष्ठ साक्षादिव बृहस्पतिः ॥

पदच्छेदः

किम् (२.१)
आहआह (√अह् लिट् प्र.पु. एक.)
मातुलोमातुल (१.१)
वाक्यंवाक्य (२.१)
यदर्थंयद्–अर्थ (२.१)
भगवान्भगवत् (१.१)
इहइह (अव्ययः)
प्राप्तोप्राप्त (√प्र-आप् + क्त, १.१)
वाक्यविदांवाक्य–विद् (६.३)
श्रेष्ठश्रेष्ठ (८.१)
साक्षाद्साक्षात् (अव्ययः)
इवइव (अव्ययः)
बृहस्पतिःबृहस्पति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कि मा मातु लो वा क्यं
र्थं वानि
प्रा प्तो वाक्यवि दां श्रेष्ठ
सा क्षादिबृस्प तिः