७.९१.८

तं घातं घोरसंकाशं न स्मरन्ति दिवौकसः ।
निमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥

पदच्छेदः

तंतद् (२.१)
घातंघात (२.१)
घोरसंकाशंघोर–संकाश (२.१)
(अव्ययः)
स्मरन्तिस्मरन्ति (√स्मृ लट् प्र.पु. बहु.)
दिवौकसःदिवौकस् (१.३)
निमेषान्तरमात्रेणनिमेष–अन्तर–मात्र (३.१)
तादृशानांतादृश (६.३)
महात्मनाम्महात्मन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं घा तं घो सं का शं
स्मन्तिदि वौ सः
नि मे षान्त मा त्रे
तादृ शा नां हात्म नाम्