७.९३.७

सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।
ज्वलन्तमिव तेजोभिः प्रदहन्तमिवांशुभिः ॥

M N Dutt

There upon saying so be it, Saumitri conducted, the effulgent ascetic to Råma's house.

पदच्छेदः

सौमित्रिस्तुसौमित्रि (१.१)–तु (अव्ययः)
तथेत्युक्त्वातथा (अव्ययः)–इति (अव्ययः)–उक्त्वा (√वच् + क्त्वा)
प्रावेशयतप्रावेशयत (√प्र-वेशय् लङ् प्र.पु. एक.)
तंतद् (२.१)
मुनिम्मुनि (२.१)
ज्वलन्तम्ज्वलत् (√ज्वल् + शतृ, २.१)
इवइव (अव्ययः)
तेजोभिःतेजस् (३.३)
प्रदहन्तम्प्रदहत् (√प्र-दह् + शतृ, २.१)
इवांशुभिःइव (अव्ययः)–अंशु (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सौ मि त्रिस्तु थे त्यु क्त्वा
प्रा वे तंमु निम्
ज्वन्तमि ते जो भिः
प्रन्तमि वांशु भिः