७.९५.१

तथा तयोः कथयतोर्दुर्वासा भगवानृषिः ।
रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ॥

पदच्छेदः

तथातथा (अव्ययः)
तयोःतद् (६.२)
कथयतोर्कथयत् (√कथय् + शतृ, ६.२)
दुर्वासादुर्वासस् (१.१)
भगवान्भगवत् (१.१)
ऋषिःऋषि (१.१)
रामस्यराम (६.१)
दर्शनाकाङ्क्षीदर्शन–आकाङ्क्षिन् (१.१)
राजद्वारम्राजन्–द्वार (२.१)
उपागमत्उपागमत् (√उपा-गम् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था योः तो
र्दु र्वा सा वानृ षिः
रास्यर्श ना का ङ्क्षी
रा द्वामु पा मत्