७.९५.९

एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम् ।
इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ॥

M N Dutt

My own destruction is far more desirable than that of all. Having thus resolved Lakşmaņa approached Rāma and communicated to him the intelligence.

पदच्छेदः

एकस्यएक (६.१)
मरणंमरण (१.१)
मेमद् (६.१)
ऽस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
मामा (अव्ययः)
भूत्भूत् (√भू प्र.पु. एक.)
सर्वविनाशनम्सर्व–विनाशन (१.१)
इतिइति (अव्ययः)
बुद्ध्याबुद्धि (३.१)
विनिश्चित्यविनिश्चित्य (√विनिः-चि + ल्यप्)
राघवायराघव (४.१)
न्यवेदयत्न्यवेदयत् (√नि-वेदय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य णं मेऽस्तु
मा भू त्सर्ववि ना नम्
ति बु द्ध्यावि नि श्चित्य
रा वान्य वे यत्