७.९७.१

विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः ।
पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ॥

M N Dutt

Having forsaken Lakşmaņa and being stricken with sorrow and grief Råma said to his citizens and ministers.

पदच्छेदः

विसृज्यविसृज्य (√वि-सृज् + ल्यप्)
लक्ष्मणंलक्ष्मण (२.१)
रामोराम (१.१)
दुःखशोकसमन्वितःदुःख–शोक–समन्वित (१.१)
पुरोधसंपुरोधस् (२.१)
मन्त्रिणश्चमन्त्रिन् (२.३)–च (अव्ययः)
नैगमांश्चेदम्नैगम (२.३)–च (अव्ययः)–इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि सृज्यक्ष्म णं रा मो
दुः शोन्वि तः
पु रो संन्त्रिश्च
नै मां श्चेब्र वीत्