७.९७.५

भरतश्च विसंज्ञोऽभूच्छ्रुत्वा रामस्य भाषितम् ।
राज्यं विगर्हयामास राघवं चेदमब्रवीत् ॥

M N Dutt

Hearing Rāma's words Bharata was also stupified and speaking ill of the kingdom, said.

पदच्छेदः

भरतश्चभरत (१.१)–च (अव्ययः)
विसंज्ञोविसंज्ञ (१.१)
ऽभूच्छ्रुत्वाअभूत् (√भू प्र.पु. एक.)–श्रुत्वा (√श्रु + क्त्वा)
रामस्यराम (६.१)
भाषितम्भाषित (२.१)
राज्यंराज्य (२.१)
विगर्हयामासविगर्हयामास (√वि-गर्हय् प्र.पु. एक.)
राघवंराघव (२.१)
चेदम् (अव्ययः)–इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्चवि सं ज्ञो ऽभू
च्छ्रु त्वा रास्य भाषि तम्
रा ज्यंविर्ह या मा
रा वं चेब्र वीत्