७.९८.१८

देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ।
रामक्षयं विदित्वा ते सर्व एव समागताः ॥

पदच्छेदः

देवपुत्रादेव–पुत्र (१.३)
ऋषिसुताऋषि–सुत (१.३)
गन्धर्वाणांगन्धर्व (६.३)
सुतास्तथासुत (१.३)–तथा (अव्ययः)
रामक्षयंराम–क्षय (२.१)
विदित्वाविदित्वा (√विद् + क्त्वा)
तेतद् (१.३)
सर्वसर्व (१.३)
एवएव (अव्ययः)
समागताःसमागत (√समा-गम् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दे पु त्राषिसु ता
न्ध र्वा णांसु तास्त था
राक्ष यंवि दि त्वा ते
र्व मा ताः