७.९९.१४

ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।
अनुजग्मुः प्रगच्छन्तं राघवं गुणरञ्जिताः ॥

पदच्छेदः

ततःततस् (अव्ययः)
सर्वाःसर्व (१.३)
प्रकृतयोप्रकृति (१.३)
हृष्टपुष्टजनावृताःहृष्ट (√हृष् + क्त)–पुष्ट (√पुष् + क्त)–जन–आवृत (√आ-वृ + क्त, १.३)
अनुजग्मुःअनुजग्मुः (√अनु-गम् लिट् प्र.पु. बहु.)
प्रगच्छन्तंप्रगच्छत् (√प्र-गम् + शतृ, २.१)
राघवंराघव (२.१)
गुणरञ्जिताःगुण–रञ्जित (√रञ्जय् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः र्वाःप्रकृ यो
हृष्ट पुष्ट नावृ ताः
नु ग्मुःप्र च्छ न्तं
रा वंगुञ्जि ताः