७.९९.१७

द्रष्टुकामोऽथ निर्याणं राज्ञो जानपदो जनः ।
संप्राप्तः सोऽपि दृष्ट्वैव सह सर्वैरनुव्रतः ॥

M N Dutt

When Råma issued out of the city, whoever came to see him followed him being desirous of going to heaven.

पदच्छेदः

द्रष्टुकामोद्रष्टु–काम (१.१)
ऽथअथ (अव्ययः)
निर्याणंनिर्याण (२.१)
राज्ञोराजन् (६.१)
जानपदोजानपद (१.१)
जनःजन (१.१)
सम्प्राप्तःसम्प्राप्त (√सम्प्र-आप् + क्त, १.१)
सोतद् (१.१)
ऽपिअपि (अव्ययः)
दृष्ट्वैवदृष्ट्वा (√दृश् + क्त्वा)–एव (अव्ययः)
सहसह (अव्ययः)
सर्वैर्सर्व (३.३)
अनुव्रतःअनुव्रत (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्रष्टु का मोऽथ नि र्या णं
रा ज्ञो जा दो नः
सं प्रा प्तः सोऽपि दृ ष्ट्वै
र्वै नुव्र तः