१.७६
क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा तेऽखिला क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।
गन्तुं पावकमुन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥
पदच्छेदः
क्षीरेणात्मगतोदकायक्षीर (३.१)–आत्मन्–गत (√गम् + क्त)–उदक (४.१)
हिहि (अव्ययः)
गुणागुण (१.३)
दत्तादत्त (√दा + क्त, १.१)
पुरापुरा (अव्ययः)
तेत्वद् (४.१)
ऽखिलाअखिल (१.१)
क्षीरोत्तापम्क्षीर–उत्ताप (२.१)
अवेक्ष्यअवेक्ष्य (√अव-ईक्ष् + ल्यप्)
तेनतद् (३.१)
पयसापयस् (३.१)
स्वात्मास्व–आत्मन् (१.१)
कृशानौकृशानु (७.१)
हुतःहुत (√हु + क्त, १.१)
गन्तुंगन्तुम् (√गम् + तुमुन्)
पावकम्पावक (२.१)
उन्मनस्उन्मनस् (१.१)
तद्तद् (१.१)
अभवद्अभवत् (√भू लङ् प्र.पु. एक.)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
तुतु (अव्ययः)
मित्रापदंमित्र–आपद् (२.१)
युक्तंयुक्त (√युज् + क्त, १.१)
तेनतद् (३.१)
जलेनजल (३.१)
शाम्यतिशाम्यति (√शम् लट् प्र.पु. एक.)
सतांसत् (६.३)
मैत्रीमैत्री (१.१)
पुनस्पुनर् (अव्ययः)
त्व्तु (अव्ययः)
ईदृशीईदृश (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
क्षी रे णात्म तो काहिगु णा त्तापु रा तेऽखि ला
क्षी रो त्ता वेक्ष्य ते सा स्वा त्माकृ शा नौहु तः
न्तुं पा मुन्मस्त द्दृ ष्ट्वातु मि त्रा दं
यु क्तं ते ले शाम्यति तां मै त्रीपु स्त्वीदृ शी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.