३.४७
विद्या नाधिगता कलङ्क-रहिता वित्तं च नोपार्जितं शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता ।
आलोलायत-लोचनाः प्रियतमाः स्वप्नेऽपि नालिङ्गिताः कालोऽयं पर-पिण्ड-लोलुपतया काकैरिव प्रेर्यते ॥
पदच्छेदः
विद्याविद्या (१.१)
नाधिगता (अव्ययः)–अधिगत (√अधि-गम् + क्त, १.१)
कलङ्करहिताकलङ्क–रहित (१.१)
वित्तंवित्त (१.१)
(अव्ययः)
नोपार्जितं (अव्ययः)–उपार्जित (√उप-अर्जय् + क्त, १.१)
शुश्रूषापिशुश्रूषा (१.१)–अपि (अव्ययः)
समाहितेनसमाहित (३.१)
मनसामनस् (३.१)
पित्रोर्पितृ (६.२)
(अव्ययः)
सम्पादितासम्पादित (√सम्-पादय् + क्त, १.१)
आलोलायतलोचनाःआलोल–आयत (√आ-यम् + क्त)–लोचन (१.३)
प्रियतमाःप्रियतम (१.३)
स्वप्नेस्वप्न (७.१)
ऽपिअपि (अव्ययः)
नालिङ्गिताः (अव्ययः)–आलिङ्गित (√आ-लिङ्गय् + क्त, १.३)
कालोकाल (१.१)
ऽयंइदम् (१.१)
परपिण्डलोलुपतयापर–पिण्ड–लोलुप–ता (३.१)
काकैर्काक (३.३)
इवइव (अव्ययः)
प्रेर्यतेप्रेर्यते (√प्र-ईरय् प्र.पु. एक.)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
वि द्या नाधि ताङ्कहि ता वि त्तं नो पार्जि तं
शु श्रू षापि माहि ते सा पि त्रोर्न म्पादि ता
लो ला लो नाःप्रि माः स्व प्नेऽपि ना लिङ्गि ताः
का लो ऽयं पिण्ड लोलु या का कैरि प्रेर्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.