१.१९.१

तच्छ्रुत्वा राजशार्दूल विश्वामित्रस्य भाषितम् ।
मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत् ॥

अन्वयः

राजशार्दूल: great king, विश्वामित्रस्य Visvamitra's, तत् भाषितम् those words, श्रुत्वा having heard, मुहूर्तमिव for a moment, निस्संज्ञ: lost his senses, संज्ञावान् regained his consciousness, इदम् अब्रवीत् thus spoke.

M N Dutt

Hearing the words of Viśvāmitra, that tiger of a monarch remained insensible for a time, and then regaining his senses, spoke thus.

Summary

On hearing Viswamitra, words the tiger among kings (Dasaratha) lost his senses for a moment and on regaining his consciousness spoke this way.

पदच्छेदः

तच्तद् (२.१)
छ्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
राजशार्दूलराजन्–शार्दूल (८.१)
विश्वामित्रस्यविश्वामित्र (६.१)
भाषितम्भाषित (√भाष् + क्त, २.१)
मुहूर्तम्मुहूर्त (२.१)
इवइव (अव्ययः)
निःसंज्ञःनिःसंज्ञ (१.१)
संज्ञावान्संज्ञावत् (१.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु त्वा रा शा र्दू
वि श्वा मि त्रस्य भाषि तम्
मु हूर्तमि निः सं ज्ञः
सं ज्ञा वानिब्र वीत्