१.६६.३

जनकेन समादिष्ठाः सचिवाः प्राविशन्पुरीम् ।
तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥

अन्वयः

जनकेन by the king Janaka, समादिष्टा: commanded, सचिवा: ministers, पुरीम् city, प्राविशन् entered, तद्धनु: that bow, पार्थिवाज्ञया by the orders of king, पुरत: in their front, कृत्वा keeping, निर्जग्मु: departed.

Summary

Commanded by (king) Janaka, the ministers went to the city, put the bow in front of them and carried it as per the orders of the king.

पदच्छेदः

जनकेनजनक (३.१)
समादिष्टाःसमादिष्ट (√समा-दिश् + क्त, १.३)
सचिवाःसचिव (१.३)
प्राविशन्प्राविशन् (√प्र-विश् लङ् प्र.पु. बहु.)
पुरीम्पुरी (२.१)
तद्तद् (२.१)
धनुःधनुस् (२.१)
पुरतःपुरतस् (अव्ययः)
कृत्वाकृत्वा (√कृ + क्त्वा)
निर्जग्मुःनिर्जग्मुः (√निः-गम् लिट् प्र.पु. बहु.)
पार्थिवाज्ञयापार्थिव–आज्ञा (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

के मा दि ष्ठाः
चि वाः प्राविन्पु रीम्
द्ध नुःपु तः कृ त्वा
नि र्ज ग्मुः पार्थि वाज्ञ या