२.१००.११

गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।
प्रवृत्तिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे ॥

अन्वयः

सः that, नृपतिः king, तेन by him, यत्र wherever, गन्तव्यम् ought to go, तत्र there, गतः had gone, मर्त्यानाम् mortals', प्रवृत्ति: (destiny) nature, एषा such is, त्वं तु as for you, मिथ्या fruitlessly, विहन्यसे (undergoing difficulties).

Summary

That king (Dasaratha) has gone to the place where he ought to go. Such is the nature of mortals. You are fruitlessly undergoing difficulties.

पदच्छेदः

गतःगत (√गम् + क्त, १.१)
तद् (१.१)
नृपतिस्नृपति (१.१)
तत्रतत्र (अव्ययः)
गन्तव्यंगन्तव्य (√गम् + कृत्, १.१)
यत्रयत्र (अव्ययः)
तेनतद् (३.१)
वैवै (अव्ययः)
प्रवृत्तिर्प्रवृत्ति (१.१)
एषाएतद् (१.१)
मर्त्यानांमर्त्य (६.३)
त्वंत्वद् (१.१)
तुतु (अव्ययः)
मिथ्यामिथ्या (अव्ययः)
विहन्यसेविहन्यसे (√वि-हन् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःनृ ति स्तत्र
न्त व्यंत्र ते वै
प्र वृत्ति रे षा र्त्या नां
त्वंतु मि थ्याविन्य से