२.१०३.२८

विक्रीतमाहितं क्रीतं यत्पित्रा जीवता मम ।
न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥

अन्वयः

मम my, जीवता while living, पित्रा by father, यत् what, विक्रीतम् was sold, आहितम् pledged, क्रीतम् bought, तत् that, लोपयितुं to annul, मया वा by me or, भरतेन वा or Bharata, न शक्यम् not possible.

Summary

Neither Bharata nor I can in any way annul anything which was sold, pledged or bought by my father during his lifetime.

पदच्छेदः

विक्रीतम्विक्रीत (√वि-क्री + क्त, १.१)
आहितंआहित (√आ-धा + क्त, १.१)
क्रीतंक्रीत (√क्री + क्त, १.१)
यत्यद् (१.१)
पित्रापितृ (३.१)
जीवताजीवत् (√जीव् + शतृ, ३.१)
मममद् (६.१)
(अव्ययः)
तल्तद् (१.१)
लोपयितुंलोपयितुम् (√लोपय् + तुमुन्)
शक्यंशक्य (१.१)
मयामद् (३.१)
वावा (अव्ययः)
भरतेनभरत (३.१)
वावा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि क्री माहि तं क्री तं
त्पि त्रा जी ता
ल्लोयि तुं क्यं
या वा ते वा