२.२५.१४

तदलं ते वनं गत्वा क्षमं न हि वनं तव ।
विमृशन्निह पश्यामि बहुदोषतरं वनम् ॥

अन्वयः

तत् for that reason, ते to you, वनम् to the forest, गत्वा going, अलम् is not desirable, तव for you, वनम् forest life, क्षमम् न हि is not fit, इह now, विमृशन् while reconsidering, वनम् forest life, बहुदोषतरम् is full of great dangers, पश्यामि I see.

M N Dutt

You should not therefore go to the forest, it forebodes no good to you. Weighing well, have I concluded that the forest abounds in innumerable evils.

Summary

Thus forest life is not suitable for you. On reconsideration, I see that there are many dangers in forest life.

पदच्छेदः

तद्तद् (१.१)
अलंअलम् (अव्ययः)
तेत्वद् (४.१)
वनंवन (२.१)
गत्वागत्वा (√गम् + क्त्वा)
क्षमंक्षम (१.१)
(अव्ययः)
हिहि (अव्ययः)
वनंवन (१.१)
तवत्वद् (६.१)
विमृशन्न्विमृशत् (√वि-मृश् + शतृ, १.१)
इहइह (अव्ययः)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
बहुदोषतरंबहुदोषतर (२.१)
वनम्वन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

लं ते नं त्वा
क्ष मंहि नं
विमृन्नि श्यामि
हु दो रं नम्