२.२७.२०

इदं हि सहितुं शोकं मुहूर्तमपि नोत्सहे ।
किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥

अन्वयः

इमम् this, शोकम् grief, मुहूर्तमपि even for a moment, सहितुम् to endure, नोत्सहे will not agree, दश ten, त्रीणि three, एकं च one, वर्षाणि years, दुःखिता a grieving woman, किं पुनः what to say again?

M N Dutt

When through affliction I shall not live after separation, better it is, O Lord, that I die immediately at the time of my being forsaken by you; I cannot bear this grief even for a moment. How shall I be able to live without you for fourteen years?

Summary

I cannot bear this grief even for a moment, what to speak of fourteen (ten and three and one) years of grieving.

पदच्छेदः

इदंइदम् (२.१)
हिहि (अव्ययः)
सहितुंसहितुम् (√सह् + तुमुन्)
शोकंशोक (२.१)
मुहूर्तम्मुहूर्त (२.१)
अपिअपि (अव्ययः)
नोत्सहे (अव्ययः)–उत्सहे (√उत्-सह् लट् उ.पु. )
किं (२.१)
पुनर्पुनर् (अव्ययः)
दशवर्षाणिदशन्–वर्ष (२.३)
त्रीणित्रि (२.३)
चैकं (अव्ययः)–एक (२.१)
(अव्ययः)
दुःखितादुःखित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दंहिहि तुं शो कं
मु हूर्तपि नोत्स हे
किंपुर्द र्षाणि
त्रीणि चै कं दुःखि ता