२.२९.३

ततः संध्यामुपास्याशु गत्वा सौमित्रिणा सह ।
जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ॥

अन्वयः

ततः thereafter, सन्ध्याम् the twilight prayers, उपास्य having performed, सौमित्रिणा सह along with Lakshmana, आशु swiftly, गत्वा went, लक्ष्म्या with prosperity, जुष्टम् endowed with, रम्यम् beautiful, तत् that, रामनिवेशनम् Rama's palace, प्राविशत् he entered.

Summary

After performing the twilight prayers, Suyajna along with Lakshmana went straight away and entered the beautiful and prosperous palace of Rama.

पदच्छेदः

ततःततस् (अव्ययः)
संध्याम्संध्या (२.१)
उपास्याशुउपास्य (√उप-आस् + ल्यप्)–आशु (अव्ययः)
गत्वागत्वा (√गम् + क्त्वा)
सौमित्रिणासौमित्रि (३.१)
सहसह (अव्ययः)
जुष्टंजुष्ट (√जुष् + क्त, २.१)
तत्तद् (२.१)
प्राविशल्प्राविशत् (√प्र-विश् लङ् प्र.पु. एक.)
लक्ष्म्यालक्ष्मी (३.१)
रम्यंरम्य (२.१)
रामनिवेशनम्राम–निवेशन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः सं ध्यामु पा स्याशु
त्वा सौ मित्रि णा
जु ष्टं त्प्रावि ल्ल क्ष्म्या
म्यं रानि वे नम्