२.२९.१
ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम् ।
गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥
गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥
Summary
AI
After receiving his brother’s auspicious and pleasing command, *Lakṣmaṇa* quickly went and entered the residence of *Suyajña*.
२.२९.२
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् ।
सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥
सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥
Summary
AI
Saluting that *Brāhmaṇa* who was in the sacrificial fire-chamber, *Lakṣmaṇa* said, "O friend, come and see the house of the one who performs difficult deeds (*Rāma*)."
२.२९.३
ततः संध्यामुपास्याशु गत्वा सौमित्रिणा सह ।
जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ॥
जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ॥
Summary
AI
After quickly performing his evening prayers, *Suyajña* went with *Lakṣmaṇa* and entered the beautiful residence of *Rāma*, which was graced with splendor.
२.२९.४
तमागतं वेदविदं प्राञ्जलिः सीतया सह ।
सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ॥
सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ॥
Summary
AI
Along with *Sītā*, *Rāghava* approached the arriving *Suyajña*, a knower of the *Vedas*, with folded hands as if approaching a consecrated fire.
२.२९.५
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः ।
सहेम सूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥
सहेम सूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥
Summary
AI
*Rāma* honored him with excellent golden armlets, auspicious earrings, jewel-studded gold threads, bracelets, and bangles.
२.२९.६
अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् ।
सुयज्ञं स तदोवाच रामः सीताप्रचोदितः ॥
सुयज्ञं स तदोवाच रामः सीताप्रचोदितः ॥
Summary
AI
*Rāma*, the descendant of *Kakutstha*, honored *Suyajña* with many other jewels. Prompted by *Sītā*, he then spoke.
२.२९.७
हारं च हेमसूत्रं च भार्यायै सौम्य हारय ।
रशनां चाधुना सीता दातुमिच्छति ते सखे ॥
रशनां चाधुना सीता दातुमिच्छति ते सखे ॥
Summary
AI
"O gentle friend, *Sītā* now wishes to give your wife a necklace, a golden thread, and a girdle; please take them."
२.२९.८
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् ।
तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥
तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥
Summary
AI
*Vaidehī* also desires to bestow upon you that couch adorned with various gems and covered with excellent spreads.
२.२९.९
नागः शत्रुं जयो नाम मातुलो यं ददौ मम ।
तं ते गजसहस्रेण ददामि द्विजपुंगव ॥
तं ते गजसहस्रेण ददामि द्विजपुंगव ॥
Summary
AI
"O best of *Brāhmaṇas*, I give you the elephant named *Śatruñjaya*, which my maternal uncle gave me, along with a thousand other elephants."
२.२९.१०
इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।
रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः ॥
रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः ॥
Summary
AI
Addressed thus by *Rāma*, *Suyajña* accepted the gifts and offered auspicious blessings to *Rāma*, *Lakṣmaṇa*, and *Sītā*.
२.२९.११
अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः ।
सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥
सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥
Summary
AI
Then, the sweet-speaking *Rāma* spoke these words to his beloved, unperturbed brother *Lakṣmaṇa*, just as *Brahmā* speaks to *Indra*, the lord of the gods.
२.२९.१२
अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ ।
अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः ॥
अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः ॥
Summary
AI
"O son of *Sumitrā*, invite both those excellent *Brāhmaṇas*, *Agastya* and *Kauśika*, and honor them with jewels, just as water nourishes a crop."
२.२९.१३
कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति ।
आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥
आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥
Summary
AI
"There is the devoted teacher of the *Taittirīyas*, a handsome knower of the *Vedas*, who serves *Kausalyā* with his blessings."
२.२९.१४
तस्य यानं च दासीश्च सौमित्रे संप्रदापय ।
कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ॥
कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ॥
Summary
AI
"O *Lakṣmaṇa*, give that *Brāhmaṇa* a vehicle, female servants, and silken clothes until he is fully satisfied."
२.२९.१५
सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः ।
तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा ॥
तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा ॥
Summary
AI
"Satisfy the venerable charioteer *Citraratha*, our long-time companion and counselor, with highly valuable gems, clothes, and wealth."
२.२९.१६
शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा ।
व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु ॥
व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु ॥
Summary
AI
"O *Lakṣmaṇa*, provide a thousand rice-carriers, two hundred bullocks, and a thousand cows for dairy products."
२.२९.१७
ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् ।
यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा ॥
यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा ॥
Summary
AI
Then, like *Kubera*, the tiger among men, *Lakṣmaṇa*, himself distributed that wealth to the best of *Brāhmaṇas* as instructed.
२.२९.१८
अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः ।
संप्रदाय बहु द्रव्यमेकैकस्योपजीविनः ॥
संप्रदाय बहु द्रव्यमेकैकस्योपजीविनः ॥
Summary
AI
Then, after distributing much wealth to each of his dependents, he spoke to his tearful attendants standing there.
२.२९.१९
लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ।
अशून्यं कार्यमेकैकं यावदागमनं मम ॥
अशून्यं कार्यमेकैकं यावदागमनं मम ॥
Summary
AI
"Until my return, both this house of mine and the residence of *Lakṣmaṇa* must be looked after and not left empty."
२.२९.२०
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् ।
उवाचेदं धनध्यक्षं धनमानीयतामिति ।
ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः ॥
उवाचेदं धनध्यक्षं धनमानीयतामिति ।
ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः ॥
Summary
AI
Having spoken thus to all his distressed dependents, he commanded the treasurer, "Let the wealth be brought!" Then the attendants brought all his wealth forward.
२.२९.२१
ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः ।
द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽभ्यदापयत् ॥
द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽभ्यदापयत् ॥
Summary
AI
Then, that tiger among men, *Rāma*, along with *Lakṣmaṇa*, caused that wealth to be distributed among the *Brāhmaṇas*, the young, the old, and the distressed.
२.२९.२२
तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः ।
आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत् ॥
आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत् ॥
Summary
AI
There was a *Brāhmaṇa* named *Trijaṭa*, a descendant of *Garga* with a tawny complexion. No one stopped him as he proceeded even up to the fifth courtyard.
२.२९.२३
स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् ।
निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः ।
उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥
निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः ।
उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥
Summary
AI
Approaching the prince, *Trijaṭa* spoke these words: "O illustrious prince, I am poor with many children and live constantly in the forest by gleaning grains. Please look upon me with favor."
२.२९.२४
तमुवाच ततो रामः परिहाससमन्वितम् ।
गवां सहस्रमप्येकं न तु विश्राणितं मया ।
परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि ॥
गवां सहस्रमप्येकं न तु विश्राणितं मया ।
परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि ॥
Summary
AI
Then *Rāma* jokingly said to him, "I have not yet distributed even a single thousand of cows. You shall receive as many cows as the distance over which you can hurl your staff."
२.२९.२५
स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् ।
आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥
आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥
Summary
AI
Hurriedly and in excitement, he tightly wrapped his cloth around his waist and, summoning all his strength, whirled and hurled his staff with great force.
२.२९.२६
उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन् ।
मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥
मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥
Summary
AI
Then *Rāma*, consoling that descendant of *Garga*, said: "You must not be angry; this was indeed only a joke on my part."
२.२९.२७
ततः सभार्यस्त्रिजटो महामुनि
र्गवामनीकं प्रतिगृह्य मोदितः ।
यशोबलप्रीतिसुखोपबृंहिणी
स्तदाशिषः प्रत्यवदन्महात्मनः ॥
र्गवामनीकं प्रतिगृह्य मोदितः ।
यशोबलप्रीतिसुखोपबृंहिणी
स्तदाशिषः प्रत्यवदन्महात्मनः ॥
Summary
AI
Then the great sage *Trijaṭa*, along with his wife, was delighted to receive the herd of cows and offered blessings to the high-souled *Rāma*, invoking an increase in his fame, strength, joy, and happiness.
॥ इति अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.