२.३३.१

महामात्रवचः श्रुत्वा रामो दशरथं तदा ।
अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥

अन्वयः

विनयज्ञः knower of politeness, रामः Rama, महामात्रवचः minister's words, श्रुत्वा having heard, तदा then, दशरथम् Dasaratha, विनीतवत् humbly, वाक्यम् words, अभ्यभाषत spoke.

Summary

On hearing the minister, Rama who knew how to be polite spoke these words to Dasaratha humbly:

पदच्छेदः

महामात्रवचःमहामात्र–वचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
रामोराम (१.१)
दशरथंदशरथ (२.१)
तदातदा (अव्ययः)
अन्वभाषतअन्वभाषत (√अनु-भाष् लङ् प्र.पु. एक.)
वाक्यंवाक्य (२.१)
तुतु (अव्ययः)
विनयज्ञोविनय–ज्ञ (१.१)
विनीतवत्विनीत (√वि-नी + क्त)–वत् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हा मात्र चः श्रु त्वा
रा मो थं दा
न्व भा वा क्यंतु
वि ज्ञोवि नी वत्