२.३२.१
ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया ।
सबाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः ॥
सबाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः ॥
Summary
AI
Then, tormented by his vow, the scion of Ikṣvāku (Daśaratha), weeping and sighing deeply, spoke these words to Sumantra again and again.
२.३२.२
सूत रत्नसुसंपूर्णा चतुर्विधबला चमूः ।
रागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥
रागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥
Summary
AI
"O Charioteer! Let an army consisting of the four divisions and filled with riches be quickly prepared to accompany Rāghava on his journey."
२.३२.३
रूपाजीवा च शालिन्यो वणिजश्च महाधनाः ।
शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥
शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥
Summary
AI
"Let beautiful courtesans and wealthy merchants, well-spread out, grace the prince’s army."
२.३२.४
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः ।
तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥
तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥
Summary
AI
"Give various gifts to those who depend on him and those with whom he enjoys sporting in valor, and assign them to this mission as well."
२.३२.५
निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु ।
नदीश्च विविधाः पश्यन्न राज्यं संस्मरिष्यति ॥
नदीश्च विविधाः पश्यन्न राज्यं संस्मरिष्यति ॥
Summary
AI
"While hunting deer and elephants, drinking forest honey, and seeing various rivers, he will not remember the kingdom."
२.३२.६
धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः ।
तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥
तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥
Summary
AI
"Whatever granaries and treasuries belong to me, let them follow Rāma as he dwells in the lonely forest."
२.३२.७
यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः ।
ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥
ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥
Summary
AI
"Sacrificing in holy places, distributing liberal fees, and meeting with sages, he will live happily in the forest."
२.३२.८
भरतश्च महाबाहुरयोध्यां पालयिष्यति ।
सर्वकामैः पुनः श्रीमान्रामः संसाध्यतामिति ॥
सर्वकामैः पुनः श्रीमान्रामः संसाध्यतामिति ॥
Summary
AI
"The mighty-armed Bharata shall rule Ayodhyā; meanwhile, let the glorious Rāma be fully equipped with all desirable things."
२.३२.९
एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् ।
मुखं चाप्यगमाच्छोषं स्वरश्चापि न्यरुध्यत ॥
मुखं चाप्यगमाच्छोषं स्वरश्चापि न्यरुध्यत ॥
Summary
AI
As the scion of Kakutstha (Daśaratha) spoke thus, fear overcame Kaikeyī; her mouth became parched, and her voice was choked.
२.३२.१०
सा विषण्णा च संत्रस्ता कैकेयी वाक्यमब्रवीत् ।
राज्यं गतजनं साधो पीतमण्डां सुरामिव ।
निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥
राज्यं गतजनं साधो पीतमण्डां सुरामिव ।
निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥
Summary
AI
Distressed and terrified, Kaikeyī said, "O noble one! Like wine with its essence drained, Bharata will not accept a desolate kingdom stripped of its people and rendered tasteless."
२.३२.११
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ।
राजा दशरथो वाक्यमुवाचायतलोचनाम् ।
वहन्तं किं तुदसि मां नियुज्य धुरि माहिते ॥
राजा दशरथो वाक्यमुवाचायतलोचनाम् ।
वहन्तं किं तुदसि मां नियुज्य धुरि माहिते ॥
Summary
AI
While the shameless Kaikeyī spoke most harshly, King Daśaratha addressed the large-eyed woman: "O malevolent one! Why do you prick me who am already bearing the burden you have imposed?"
२.३२.१२
कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ।
तवैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत् ।
असमञ्ज इति ख्यातं तथायं गन्तुमर्हति ॥
तवैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत् ।
असमञ्ज इति ख्यातं तथायं गन्तुमर्हति ॥
Summary
AI
Doubly enraged, Kaikeyī told the king, "In your own lineage, Sagara exiled his eldest son, known as Asamañja. This Rāma deserves to go in the same manner."
२.३२.१३
एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् ।
व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत ॥
व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत ॥
Summary
AI
Thus addressed, King Daśaratha could only say "Fie!" All the people were ashamed, but she did not realize the gravity of her words.
२.३२.१४
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः ।
शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥
शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥
Summary
AI
Then, an aged minister named Siddhārtha, who was pure and highly respected by the king, spoke these words to Kaikeyī.
२.३२.१५
असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् ।
सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥
सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥
Summary
AI
"The evil-minded Asamañja used to seize children playing on the path and throw them into the waters of the Sarayū, finding pleasure in that act."
२.३२.१६
तं दृष्ट्वा नागरः सर्वे क्रुद्धा राजानमब्रुवन् ।
असमञ्जं वृषीण्वैकमस्मान्वा राष्ट्रवर्धन ॥
असमञ्जं वृषीण्वैकमस्मान्वा राष्ट्रवर्धन ॥
Summary
AI
"Seeing this, all the citizens angrily said to the king, 'O Increaser of the Kingdom! Choose either Asamañja or us!'"
२.३२.१७
तानुवाच ततो राजा किंनिमित्तमिदं भयम् ।
ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥
ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥
Summary
AI
"Then the king asked them, 'What is the cause of this fear?' Thus questioned by the king, the subjects replied."
२.३२.१८
क्रीडितस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनः ।
सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते ॥
सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते ॥
Summary
AI
"'This distracted-minded prince, throwing our young sons into the Sarayū, enjoys immense pleasure out of foolishness while they are playing.'"
२.३२.१९
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप ।
तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥
तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥
Summary
AI
"Hearing the words of his subjects, that king, desiring to do what was pleasing to them, abandoned his harmful son."
२.३२.२०
इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः ।
रामः किमकरोत्पापं येनैवमुपरुध्यते ॥
रामः किमकरोत्पापं येनैवमुपरुध्यते ॥
Summary
AI
"The virtuous King Sagara abandoned him for such reasons. What sin has Rāma committed that he is being exiled in this manner?"
२.३२.२१
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः ।
शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥
शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥
Summary
AI
Having heard the words of Siddhārtha, the King, with an extremely exhausted voice and speech stricken by grief, spoke these words to Kaikeyī.
२.३२.२२
अनुव्रजिष्याम्यहमद्य रामं
राज्यं परित्यज्य सुखं धनं च ।
सहैव राज्ञा भरतेन च त्वं
यथा सुखं भुङ्क्ष्व चिराय राज्यम् ॥
राज्यं परित्यज्य सुखं धनं च ।
सहैव राज्ञा भरतेन च त्वं
यथा सुखं भुङ्क्ष्व चिराय राज्यम् ॥
Summary
AI
I shall follow Rāma today, renouncing the kingdom, comforts, and wealth. You, together with King Bharata, may enjoy the kingdom for a long time according to your pleasure.
॥ इति अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.