२.३५.२

तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह ।
राघवः शोकसंमूढो जननीमभ्यवादयत् ॥

अन्वयः

धर्मज्ञः knower of duty, राघवः Rama, सीतया सह along with Sita, तम् (to him), समनुज्ञाप्य after taking leave of, शोकसम्मूढः griefstricken, जननीम् to mother, अभ्यवादयत् paid obeisance.

Summary

Taking leave of Dasaratha, the righteous descendant of the Raghus (Rama) along with Sita paid obeisance to his mother Kausalya who was afflicted with deep grief.

पदच्छेदः

तंतद् (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
समनुज्ञाप्यसमनुज्ञाप्य (√समनु-ज्ञापय् + ल्यप्)
धर्मज्ञःधर्म–ज्ञ (१.१)
सीतयासीता (३.१)
सहसह (अव्ययः)
राघवःराघव (१.१)
शोकसंमूढोशोक–संमूढ (√सम्-मुह् + क्त, १.१)
जननीम्जननी (२.१)
अभ्यवादयत्अभ्यवादयत् (√अभि-वादय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं चापि नु ज्ञाप्य
र्म ज्ञः सी या
रा वः शो सं मू ढो
नीभ्य वा यत्