२.४१.१८

यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने ।
अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥

अन्वयः

एते पौराः these citizens, अस्मन्निवर्तने on our return, यथा as, नियमम् resolve, कुर्वन्ति are doing, प्राणानपि even life also, न्यसिष्यन्ति will give up, निश्चयं तु determination, न त्यक्ष्यन्ति will not abandon.

M N Dutt

These citizens have determined upon making me turn back from the forest, they would rather renounce their lives than give up their resolve.

Summary

On seeing the people's resolve to take us back, it appears they are prepared to give up their lives rather than abandon their determination.

पदच्छेदः

यथैतेयथा (अव्ययः)–एतद् (१.३)
नियमंनियम (२.१)
पौराःपौर (१.३)
कुर्वन्त्य्कुर्वन्ति (√कृ लट् प्र.पु. बहु.)
अस्मन्निवर्तनेमद्–निवर्तन (७.१)
अपिअपि (अव्ययः)
प्राणान्प्राण (२.३)
असिष्यन्तिअसिष्यन्ति (√अस् लृट् प्र.पु. बहु.)
(अव्ययः)
तुतु (अव्ययः)
त्यक्ष्यन्तित्यक्ष्यन्ति (√त्यज् लृट् प्र.पु. बहु.)
निश्चयम्निश्चय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थै तेनि मं पौ राः
कु र्व न्त्य स्मन्निर्त ने
पि प्रा णा सि ष्यन्ति
तु त्य क्ष्यन्ति निश्च यम्