२.५६.१५

तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते ।
अदीनामिव वेगेन समुद्रसलिलं महत् ॥

अन्वयः

तम् Rama, चिन्तयमानायाः while thinking of, हृदि in my heart, अयम् this, शोकः sadness, नदीनाम् by river waters, वेगेन by speed, महत् great, समुद्रसलिलमिव like seawaters, वर्धते is increasing.

M N Dutt

And fostered by thought on my part, this grief increases in my bosom, like the mighty waters of the ocean increased by the vehement discharge of rivers.

Summary

As I think of Rama, my heart swells with sorrow just as the ocean rises with rushing rivers.

पदच्छेदः

तंतद् (२.१)
हिहि (अव्ययः)
चिन्तयमानायाःचिन्तयमान (√चिन्तय् + शानच्, ६.१)
शोकोशोक (१.१)
ऽयंइदम् (१.१)
हृदिहृद् (७.१)
वर्धतेवर्धते (√वृध् लट् प्र.पु. एक.)
अदीनाम्अदीन (२.१)
इवइव (अव्ययः)
वेगेनवेग (३.१)
समुद्रसलिलंसमुद्र–सलिल (१.१)
महत्महत् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तंहि चिन्त मा ना याः
शो को ऽयंहृदिर्ध ते
दी नामि वे गे
मुद्रलि लं हत्