२.५७.२१

जटाभारधरस्यैव वल्कलाजिनवाससः ।
को वधेन ममार्थी स्यात्किं वास्यापकृतं मया ॥

अन्वयः

जटाभारधरस्यैव with matted hair, वल्कलाजिनवाससः wearing bark and skin of an antelope, मम my, वधेन by killing, अर्थी interested, कः who?, स्यात् मया could be?, अस्य to him, किं वा what, अपकृतम् harm?

Summary

'Who wants to kill me who lives like an ascetic with matted hair and wearing bark or the skin of an antelope? What harm have I done to him?

पदच्छेदः

जटाभारधरस्यैवजटा–भार–धर (६.१)–एव (अव्ययः)
वल्कलाजिनवाससःवल्कल–अजिन–वासस् (६.१)
को (१.१)
वधेनवध (३.१)
ममार्थीमद् (६.१)–अर्थिन् (१.१)
स्यात्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
किं (१.१)
वास्यापकृतंवा (अव्ययः)–इदम् (६.१)–अपकृत (√अप-कृ + क्त, १.१)
मयामद् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

टा भा स्यै
ल्क लाजि वा सः
को धे मा र्थी स्या
त्किं वा स्याकृ तं या