२.६३.३

तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः ।
आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः ॥

अन्वयः

प्रियवादिनः speaking pleasing words, वयस्याः peers, तप्यमानम् griefstricken, समाज्ञाय having observed, आयासम् despair, विनेष्यन्तः with a view to remove, सभायाम् in the assembly, कथाः stories, चक्रिरे made.

M N Dutt

And finding him aggrieved, his sweet. speeched associates, endeavouring to chase the heaviness, began to converse on a variety of subjects.

Summary

Observing him griefstricken his peers who always spoke pleasant words, engaged him in a variety of ways in the assembly in order to divert him.

पदच्छेदः

तप्यमानंतप्यमान (√तप् + शानच्, २.१)
समाज्ञायसमाज्ञाय (√समा-ज्ञा + ल्यप्)
वयस्याःवयस्य (१.३)
प्रियवादिनःप्रिय–वादिन् (१.३)
आयासंआयास (२.१)
हिहि (अव्ययः)
विनेष्यन्तःविनेष्यत् (√वि-नी + कृत्, १.३)
सभायांसभा (७.१)
चक्रिरेचक्रिरे (√कृ लिट् प्र.पु. बहु.)
कथाःकथा (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्य मा नं मा ज्ञा
स्याःप्रि वादि नः
या संहिवि ने ष्य न्तः
भा यांक्रि रे थाः