२.७४.१७

बहुपांसुचयाश्चापि परिखापरिवारिताः ।
तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः ॥

पदच्छेदः

बहुपांसुचयाश्बहु–पांसु–चय (१.३)
चापि (अव्ययः)–अपि (अव्ययः)
परिखापरिवारिताःपरिखा–परिवारित (√परि-वारय् + क्त, १.३)
तत्रेन्द्रकीलप्रतिमाःतत्र (अव्ययः)–इन्द्रकील–प्रतिमा (१.३)
प्रतोलीवरशोभिताःप्रतोली–वर–शोभित (√शोभय् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हु पांसु या श्चापि
रि खारि वारि ताः
त्रेन्द्र कीप्रति माः
प्र तो ली शोभि ताः