२.८१.१५

तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः ।
न हि तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन् ॥

अन्वयः

सत्यपराक्रमः a man with truth as prowess, रामः Rama, तत्सर्वम् all that, प्रत्यनुज्ञासीत् acknowledged ordered, सः he, क्षत्रधर्मम् the duty of a kshatriya, अनुस्मरन् remembering, तत् all that, न तु प्रत्यगृह्णात् did not accept it.

M N Dutt

All these Rāma having truth for his prowess accepted, but observing Ksatriya morality, he did not take them.

Summary

Rama whose prowess is his truth, acknowledged all that but remembering the duty enjoined on a kshatriya did not accept them.

पदच्छेदः

तत्तद् (२.१)
सर्वंसर्व (२.१)
प्रत्यनुज्ञासीद्प्रत्यनुज्ञासीत् (√प्रत्यनु-ज्ञा प्र.पु. एक.)
रामःराम (१.१)
सत्यपराक्रमःसत्य–पराक्रम (१.१)
(अव्ययः)
हिहि (अव्ययः)
तत्तद् (२.१)
प्रत्यगृह्णात्प्रत्यगृह्णात् (√प्रति-ग्रह् लङ् प्र.पु. एक.)
तद् (१.१)
क्षत्रधर्मम्क्षत्र–धर्म (२.१)
अनुस्मरन्अनुस्मरत् (√अनु-स्मृ + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्स र्वं प्रत्य नु ज्ञा सी
द्रा मःत्य राक्र मः
हि त्प्रत्य गृ ह्णात्स
क्षत्रर्म नुस्म रन्