२.८३.४

इति संवदतोरेवमन्योन्यं नरसिंहयोः ।
आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ॥

अन्वयः

नरसिंहयोः lions among men, Bharata and Satrughna, इत्येवम् in this way, अन्योन्यम् with one another, संवदतोः while both of them were conversing, गुहः Guha, काले at appropriate time, आगम्य having arrived, प्राञ्जलिः with folded palms, भरतम् to Bharata, अब्रवीत् said.

M N Dutt

As those chiefs of men were thus conversing with each other, Guha appearing in time with joined hands, remarked.

Summary

While the two lions among men, Bharata and Satrughna were thus conversing with each other, Guha came in the appropriate time and said to Bharata with folded palms:

पदच्छेदः

इतिइति (अव्ययः)
संवदतोर्संवदत् (√सम्-वद् + शतृ, ६.२)
एवम्एवम् (अव्ययः)
अन्योन्यंअन्योन्य (२.१)
नरसिंहयोःनर–सिंह (६.२)
आगम्यआगम्य (√आ-गम् + ल्यप्)
प्राञ्जलिःप्राञ्जलि (१.१)
कालेकाल (७.१)
गुहोगुह (१.१)
भरतम्भरत (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ति सं तो रे
न्यो न्यं सिं योः
म्य प्राञ्ज लिः का ले
गु होब्र वीत्