२.९५.३४

तेषां तु रुदतां शब्दात्प्रतिश्रुत्काभवद्गिरौ ।
भ्रातॄणां सह वैदेह्या सिंहानां नर्दतामिव ॥

अन्वयः

वैदेह्या सह with Sita, रुदताम् of those lamenting people, तेषां भ्रात्रूणाम् all the brothers', शब्दात् with the sound, नर्दताम् roaring, सिंहानामिव like the lions, शब्दात् with sound, गिरौ in the mountain, प्रतिशब्दः अभवत् was echoed.

M N Dutt

And there the hill reverberated at the sounds raised by the brothers wailing along with Vaidehi; like to lions roaring.

Summary

The mountain echoed with the sound of lamentations of all the brothers along with Sita which resembled the roar of lions.

पदच्छेदः

तेषांतद् (६.३)
तुतु (अव्ययः)
रुदतांरुदत् (√रुद् + शतृ, ६.३)
शब्दात्शब्द (५.१)
प्रतिश्रुत्काभवद्प्रतिश्रुत्का (१.१)–अभवत् (√भू लङ् प्र.पु. एक.)
गिरौगिरि (७.१)
भ्रातॄणांभ्रातृ (६.३)
सहसह (अव्ययः)
वैदेह्यावैदेही (३.१)
सिंहानांसिंह (६.३)
नर्दताम्नर्दत् (√नर्द् + शतृ, ६.३)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते षांतुरु तां ब्दा
त्प्र ति श्रु त्काद्गि रौ
भ्रा तॄ णां वै दे ह्या
सिं हा नांर्द तामि