३.१.११

ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः ।
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः ॥

अन्वयः

दृढव्रताः steadfast in vows, ते they, उद्यन्तम् rising, सोममिव like the Moon, धर्मचारिणम् follower of righteous path, दृष्ट्वा तु on seeing, लक्ष्मणं चैव Lakshmana too, यशस्विनीम् famed, वैदेहीं च Sita also, दृष्ट्वा तु seeing, मङ्गलानि words of benediction, प्रयुञ्जानाः uttering, प्रत्यगृह्णन् went towards and received them.

Summary

The sages, steadfast in their vows, saw Rama who was shining like the rising Moon, Lakshmana and the famed Sita went forward and received them with words of benediction.

पदच्छेदः

तेतद् (१.३)
तंतद् (२.१)
सोमम्सोम (२.१)
इवोद्यन्तंइव (अव्ययः)–उद्यत् (√उत्-इ + शतृ, २.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
वैवै (अव्ययः)
धर्मचारिणःधर्म–चारिन् (१.३)
मङ्गलानिमङ्गल (२.३)
प्रयुञ्जानाःप्रयुञ्जान (√प्र-युज् + शानच्, १.३)
प्रत्यगृह्णन्प्रत्यगृह्णन् (√प्रति-ग्रह् लङ् प्र.पु. बहु.)
दृढव्रताःदृढ–व्रत (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते तं सोमि वो द्य न्तं
दृ ष्ट्वा वैर्म चारि णः
ङ्ग ला निप्र यु ञ्जा नाः
प्रत्य गृ ह्णन्दृव्र ताः