३.३२.४

इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता ।
ततो रामं यथान्यायमाख्यातुमुपचक्रमे ॥

अन्वयः

राक्षसेन्द्रेण by the king of demons, इति thus, उक्ता spoken, क्रोधमूर्छिता overtaken by anger, राक्षसी the demoness ततः then, रामम् Rama, यथातत्वम् faithfully, आख्यातुम् to describe, उपचक्रमे she started.

Summary

Thus questioned by Ravana, the demoness, overcome by anger, began telling him about Rama faithfully:

पदच्छेदः

इत्य्इति (अव्ययः)
उक्ताउक्त (√वच् + क्त, १.१)
राक्षसेन्द्रेणराक्षस–इन्द्र (३.१)
राक्षसीराक्षसी (१.१)
क्रोधमूर्छिताक्रोध–मूर्छित (√मूर्छय् + क्त, १.१)
ततोततस् (अव्ययः)
रामंराम (२.१)
यथान्यायम्यथान्यायम् (अव्ययः)
आख्यातुम्आख्यातुम् (√आ-ख्या + तुमुन्)
उपचक्रमेउपचक्रमे (√उप-क्रम् लिट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यु क्ता राक्ष से न्द्रे
राक्ष सी क्रो मूर्छि ता
तो रा मं था न्या
मा ख्यातुमुक्र मे