३.४०.४

प्रहृष्टस्त्वभवत्तेन वचनेन स राक्षसः ।
परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ॥

अन्वयः

सः रावणः that, Ravana, तेन वचनेन with those words, प्रहृष्टः felt happy, तु अभवत् he was, सुसंश्लिष्टम् tightly, परिष्वज्य embracing, इदम् these, वचनम् words , अब्रवीत् said.

M N Dutt

The Lord of Rākşasas being pleased with Mārīca's words embraced him warmly and said,

Summary

Ravana was so overwhelmed with joy to hear those words that he embraced him tightly and said:.

पदच्छेदः

प्रहृष्टस्प्रहृष्ट (√प्र-हृष् + क्त, १.१)
त्व्तु (अव्ययः)
अभवत्अभवत् (√भू लङ् प्र.पु. एक.)
तेनतद् (३.१)
वचनेनवचन (३.१)
तद् (१.१)
राक्षसःराक्षस (१.१)
परिष्वज्यपरिष्वज्य (√परि-स्वज् + ल्यप्)
सुसंश्लिष्टम्सु (अव्ययः)–संश्लिष्ट (√सम्-श्लिष् + क्त, २.१)
इदंइदम् (२.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र हृ ष्टस्त्व त्ते
ने राक्ष सः
रि ष्वज्यसु सं श्लिष्ट
मि दंब्र वीत्