३.४५.२

ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम् ।
इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥

अन्वयः

ब्राह्मणश्च a brahmin, अतिथिश्च also a guest, अयम् this man, अनुक्तः unanswered, माम् me, शपेत हि may curse, इति thus, मुहूर्तम् for a moment, ध्यात्वा thought, सीता Sita, वचनम् these words, अब्रवीत् said.

M N Dutt

This person is my guest and a Brahmin; he may curse me if I do not speak to him. Thinking this for a moment Sītā said.

Summary

'He is a brahmin and also a guest. If unanswered he may curse me'. Thinking this Sita thought for a moment and said:

पदच्छेदः

ब्राह्मणश्ब्राह्मण (१.१)
चातिथिश् (अव्ययः)–अतिथि (१.१)
चैष (अव्ययः)–एतद् (१.१)
अनुक्तोअनुक्त (१.१)
हिहि (अव्ययः)
शपेतशपेत (√शप् विधिलिङ् प्र.पु. एक.)
माम्मद् (२.१)
इतिइति (अव्ययः)
ध्यात्वाध्यात्वा (√ध्या + क्त्वा)
मुहूर्तंमुहूर्त (२.१)
तुतु (अव्ययः)
सीतासीता (१.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्राह्म श्चाति थि श्चै
नु क्तोहि पे माम्
ति ध्या त्वामु हू र्तंतु
सी ताब्र वीत्