४.४१.५२

ततः सुषेण प्रमुखाः प्लवंगमाः; सुग्रीववाक्यं निपुणं निशम्य ।
आमन्त्र्य सर्वे प्लवगाधिपं ते; जग्मुर्दिशं तां वरुणाभिगुप्ताम् ॥

M N Dutt

Then those monkeys-the monkey-chiefs headed by Sușeņa, having heard Sugrīva's deft speech, set out for the quarter protected by Varuna.

पदच्छेदः

ततःततस् (अव्ययः)
सुषेणप्रमुखाःसुषेण–प्रमुख (१.३)
प्लवंगमाःप्लवंगम (१.३)
सुग्रीववाक्यंसुग्रीव–वाक्य (२.१)
निपुणंनिपुण (२.१)
निशम्यनिशम्य (√नि-शामय् + ल्यप्)
आमन्त्र्यआमन्त्र्य (√आ-मन्त्रय् + ल्यप्)
सर्वेसर्व (१.३)
प्लवगाधिपंप्लवग–अधिप (२.१)
तेतद् (१.३)
जग्मुर्जग्मुः (√गम् लिट् प्र.पु. बहु.)
दिशंदिश् (२.१)
तांतद् (२.१)
वरुणाभिगुप्ताम्वरुण–अभिगुप्त (√अभि-गुप् + क्त, २.१)

छन्दः

इन्द्रवज्रा [११: ततजगग]

छन्दोविश्लेषणम्

१०१११२
तःसु षेप्रमु खाःप्ल वं माः
सु ग्री वा क्यंनिपु णंनिम्य
न्त्र्य र्वेप्ल गाधि पं ते
ग्मुर्दि शं तांरु णाभि गु प्ताम्