४.४३.१५

स तत्प्रकर्षन्हरिणां बलं मह;द्बभूव वीरः पवनात्मजः कपि ।
गताम्बुदे व्योम्नि विशुद्धमण्डलः; शशीव नक्षत्रगणोपशोभितः ॥

अन्वयः

हरीणाम् of monkeys, महत् great, तत् बलम् that army, प्रकर्षन् being foremost among them, वीरः hero, पवनात्मजः son of the Windgod, सः कपिः that monkey, गताम्बुदे cloudless, व्योम्नि in the sky, नक्षत्रगणोपशोभितः adorned by hosts of stars, शशीव like the Moon, बभूव appeared.

M N Dutt

Then taking with him that mighty host of monkeys, that hero, the son of the wind, resembled the moon of bright disc in the sky, garnished by the stars, after the clouds have departed.

Summary

Like the moon adorned by hosts of stars in the cloudless sky, the mighty heroic Hanuman, the great son of the Windgod, shone in the midst of the army of monkeys.

पदच्छेदः

तद् (१.१)
तत्तद् (२.१)
प्रकर्षन्प्रकर्षत् (√प्र-कृष् + शतृ, १.१)
हरिणांहरिन् (६.३)
बलंबल (२.१)
महद्महत् (२.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
वीरःवीर (१.१)
पवनात्मजःपवनात्मज (१.१)
कपिःकपि (१.१)
गताम्बुदेगत (√गम् + क्त)–अम्बुद (७.१)
व्योम्निव्योमन् (७.१)
विशुद्धमण्डलःविशुद्ध (√वि-शुध् + क्त)–मण्डल (१.१)
शशीवशशिन् (१.१)–इव (अव्ययः)
नक्षत्रगणोपशोभितःनक्षत्र–गण–उपशोभित (√उप-शोभय् + क्त, १.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
त्प्र र्षन्हरि णां लं
द्ब भू वी रः नात्म जःपि
ताम्बु दे व्योम्निवि शुद्धण्ड लः
शी क्षत्र णो शोभि तः