४.४९.१५

इत्युक्तास्तद्बिलं सर्वे विविशुस्तिमिरावृतम् ।
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् ॥

अन्वयः

इति thus, उक्त्वा having been told, सर्वे all, तिमिरावृतम् filled with darkness, तत् बिलम् that cave, विविशुः entered, हरयः monkeys, अचन्द्रसूर्यम् where there is no Moon or Sun light, रोमहर्षणम् horripilating, ददृशुः saw.

Summary

On hearing him, the monkeys entered the cave full of darkness. There was no light of the Moon or the Sun. It was a horripilating experience.

पदच्छेदः

इत्य्इति (अव्ययः)
उक्तास्उक्त (√वच् + क्त, १.३)
तद्तद् (२.१)
बिलंबिल (२.१)
सर्वेसर्व (१.३)
विविशुस्विविशुः (√विश् लिट् प्र.पु. बहु.)
तिमिरावृतम्तिमिर–आवृत (√आ-वृ + क्त, २.१)
अचन्द्रसूर्यंअचन्द्र–सूर्य (२.१)
हरयोहरि (१.३)
ददृशूददृशुः (√दृश् लिट् प्र.पु. बहु.)
रोमहर्षणम्रोमहर्षण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यु क्ता स्तद्बि लं र्वे
विवि शुस्तिमि रावृ तम्
न्द्र सू र्यं यो
दृ शू रोर्ष णम्