४.६०.१४

पक्षिभ्यां च मया गुप्तो जटायुर्न प्रदह्यत ।
प्रमादात्तत्र निर्दग्धः पतन्वायुपथादहम् ॥

अन्वयः

मया by me, पक्षाभ्याम् with wings, गुप्तः protected, जटायुः Jatayu, न प्रदह्यते was not burnt, तत्र there, प्रमादात् miserably, वायुपथात् from the path of the wind, पतन् while falling down, अहम् I, निर्दग्धः got burnt.

Summary

'I protected Jatayu with my wings so that he was not burnt. I, however, got burnt miserably and fell down from the aerial region.

पदच्छेदः

पक्षिभ्यांपक्षिन् (३.२)
(अव्ययः)
मयामद् (३.१)
गुप्तोगुप्त (√गुप् + क्त, १.१)
जटायुर्जटायुस् (१.१)
(अव्ययः)
प्रदह्यतप्रदह्यत (√प्र-दह् प्र.पु. एक.)
प्रमादात्प्रमाद (५.१)
तत्रतत्र (अव्ययः)
निर्दग्धःनिर्दग्ध (√निः-दह् + क्त, १.१)
पतन्पतत् (√पत् + शतृ, १.१)
वायुपथाद्वायु–पथ (५.१)
अहम्मद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षि भ्यां या गु प्तो
टा यु र्नप्रह्य
प्र मा दा त्तत्र नि र्द ग्धः
न्वायु था हम्