५.१५.२

साचिव्यमिव कुर्वन्स प्रभया निर्मलप्रभः ।
चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥

अन्वयः

निर्मलप्रभः clear light, सः चन्द्रमाः the Moon, प्रभया by his brightness, साचिव्यम् ministered, कुर्वन्निव like one who wished to render, शीतैः with cool, रश्मिभि: rays, पवनात्मजम् son of the Windgod, सिषेवे refreshed.

M N Dutt

With a view to befriend him, the Moon of clear rays, sprinkled the Wind-God's son, with cool beams.

Summary

The Moon shed clear lightas if with his brightness and his cool rays he wished to refresh the son of the Windgod.

पदच्छेदः

साचिव्यम्साचिव्य (२.१)
इवइव (अव्ययः)
कुर्वन्कुर्वत् (√कृ + शतृ, १.१)
तद् (१.१)
प्रभयाप्रभा (३.१)
निर्मलप्रभःनिर्मल–प्रभा (१.१)
चन्द्रमाचन्द्रमस् (१.१)
रश्मिभिःरश्मि (३.३)
शीतैःशीत (३.३)
सिषेवेसिषेवे (√सेव् लिट् प्र.पु. एक.)
पवनात्मजम्पवनात्मज (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा चिव्यमि कु र्वन्स
प्र या निर्मप्र भः
न्द्र माश्मि भिः शी तैः
सि षे वे नात्म जम्