५.२४.२०

कृतं कर्म महत्तेन मां तदाभ्यवपद्यता ।
तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ॥

अन्वयः

माम् me, तथा then, अभ्यवपद्यता by advancing, वृद्धेनापि even being old, रावणद्वन्द्वे in the duel with Ravana, तिष्ठता stood, तेन जटायुषा by that Jatayu, महत् great, कर्म help, कृतम् did.

M N Dutt

O great was the work done by him, who, old as he was, for my sake, addressed himself to bring about Rāvana's destruction.

Summary

"Though old, Jatayu did a great help to me by resisting Ravana in the duel and advancing (to confront him.).

पदच्छेदः

कृतंकृत (√कृ + क्त, १.१)
कर्मकर्मन् (१.१)
महत्महत् (१.१)
तेनतद् (३.१)
मांमद् (२.१)
तदाभ्यवपद्यतातदा (अव्ययः)–अभ्यवपद्यत् (√अभ्यव-पद् + शतृ, ३.१)
तिष्ठतातिष्ठत् (√स्था + शतृ, ३.१)
रावणद्वन्द्वेरावण–द्वंद्व (७.१)
वृद्धेनापिवृद्ध (३.१)–अपि (अव्ययः)
जटायुषाजटायुस् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कृ तंर्म त्ते
मां दाभ्यद्य ता
तिष्ठ ता रा द्व न्द्वे
वृ द्धे नापि टायु षा