५.३९.८

कथं नु खल्वद्य भवेत्सुखागतं; प्रसह्य युद्धं मम राक्षसैः सह ।
तथैव खल्वात्मबलं च सारव;त्समानयेन्मां च रणे दशाननः ॥

अन्वयः

अद्य today, मम for me, राक्षसैः सह with ogres, प्रसह्य enduring, युद्धम् war, कथं नु how to, सुखागतम् happy coming, भवेत् may be, तथैव in that way, आत्मबलं च our strength, सारवत् substantial, सः he, दशाननः च tenheaded Ravana's, माम् me, रणे in fight, मानयेत् measure.

M N Dutt

How can my arrival (at this place) be made to bring forth good fruit? How can I forcibly bring on engagement with the Rākşasas? And how can the Ten-necked one in battle be made to form a just estimate of the respective strength of myself and his forces?

Summary

'How can I have enduring war with the ogres today? How will my visit to this place end in happy return? Only in a combat this tenheaded Ravana will guage his strength and mine

पदच्छेदः

कथंकथम् (अव्ययः)
नुनु (अव्ययः)
खल्वद्यखलु (अव्ययः)–अद्य (अव्ययः)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
सुखागतंसुखागत (१.१)
प्रसह्यप्रसह्य (√प्र-सह् + ल्यप्)
युद्धंयुद्ध (२.१)
मममद् (६.१)
राक्षसैःराक्षस (३.३)
तथैवतथा (अव्ययः)–एव (अव्ययः)
खल्वात्मबलंखलु (अव्ययः)–आत्मन्–बल (१.१)
(अव्ययः)
सारवत्सारवत् (१.१)
समानयेन्मांसमानयेत् (√समा-नी विधिलिङ् प्र.पु. एक.)–मद् (२.१)
(अव्ययः)
रणेरण (७.१)
दशाननःदशानन (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
थंनु ल्वद्य वेत्सु खा तं
प्रह्य यु द्धं राक्ष सैः
थै ल्वात्म लं सा
त्स मा ये न्मां णे शा नः